Vyakarana Praveshika

Basic - Online
Course Validity
year 1 Year(s)
Course Fee
Rupee 1000
Students Enrolled
year 26
Description

पाठ्यक्रमः

लघुसिद्धान्तकौमुदी व्याकरणे प्रवेशं कर्तुं ये इच्छन्ति तान् उद्दिश्य वरदराजाचार्यैः विरचितः ग्रन्थः। अस्मिन् ग्रन्थे प्रकरणशः विभज्य व्याकरणसूत्राणां विवरणं तैः कृतम्।संस्कृतभाषायां सन्धिविषये के नियमाः, कति प्रकाराः सन्धयः इत्यादिविषये ग्रन्थकारैः आदिमपञ्चप्रकरणेषु निरूपितम्।तेषां पञ्चप्रकरणानां “पञ्चसन्धिप्रकरणम्” इति प्रसिद्धिः।अस्मिन् विषये सरलया अथ च विस्तरेण अत्र​ पाठः भविष्यति। पञ्चदशपाठैः पञ्चसन्धिविषये नूतनानाम् अपि यथा बोधः स्यात् तथा निरूप्यते। छात्राश्च अमुं पाठ्यांशं पठित्वा उपकृताः भवेयुः। अस्मिन् पाठ्यक्रमे संस्कृतप्रवेशिका - 2 सहित संस्कृतदक्षता -1 पाठ्यक्रमं समापितवताम् अथ वा तत्समानज्ञानयुक्तानां सुलभावगमः भवेत्।

अध्यापकः

श्री. G. गोपालकृष्ण-महोदयः बहुभ्यः वत्सरेभ्यः संस्कृत​-पाठनं करोति। स च वैद्यसुब्रह्मण्यमहोदयस्य निकटे अनेकान् व्याकरणग्रन्थान् सम्प्रदायरीत्या अपठत्। इदानीं च मद्रपुरीसंस्कृतमहाविद्यालये Digital Campus विभागे अध्यापकपदम् अलङ्कुर्वाणः नैकेषां आन्तर्जालिकपाठानां उत्पत्तौ कारणीभूतः अस्ति।

पाठप्रणाली

अयं पाठ्यक्रमः वर्गानां चलचित्रमुद्रणात्मकः (video recording) भवति। अतः अमुम् आन्तर्जालिकपाठ्यक्रमं पठितुं छात्रैः निर्दिष्टसमये login कर्तव्यमिति नियमः नास्ति। छात्राः अपेक्षितसमये login कृत्वा पाठान् द्रष्टुं शक्नुवन्ति। प्रतिपाठं समाप्त्यवसरे प्रश्नावलिः विकल्पात्मकोत्तरसहिता (objective type quiz) भवति उचितविकल्पचयनेन प्रश्नाः उत्तरणीयाः। अन्तिमपाठस्य समाप्तौ लघु परीक्षा भविष्यति सापि विकल्पात्मकोत्तरसहिता । परीक्षायां स्वीकृतैः अङ्कैः सह पाठसमाप्ति-प्रश्नानां अङ्कान् गणयित्वा प्रमाणपत्रं दास्यते।